नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजते ।
शंखचक्रगदाहस्ते महालक्ष्मी नमोऽस्तुते ॥१॥
नमस्ते गरुडारुढे कोलासुरभयंकरि ।
सर्वपापहरे देवि महालक्ष्मी नमोऽस्तुते ॥२॥
सर्वज्ञे सर्व वर दे सर्वदुष्टभयंकरि ।
सर्वदुःख हरे देवि महालक्ष्मी नमोऽस्तुते ॥३॥
सिद्धिबुद्धिप्रदे देवि भुक्तिमुक्ति प्रदायिनि ।
मंत्रमूर्ते सदा देवि महालक्ष्मी नमोऽस्तुते ॥४॥
आद्यन्तरहिते देवि आद्यशक्ति महेश्वरि ।
योगजे योगसंभुते महालक्ष्मी नमोऽस्तुते ॥५॥
स्थूलसूक्ष्ममहारौद्रे महाशक्ति महोदरे ।
महापापहरे देवि महालक्ष्मी नमोऽस्तुते ॥६॥
पद्मासनस्थिते देवि परब्रह्मस्वरूपिणि ।
परमेशि जगन्मातर्महालक्ष्मी नमोऽस्तुते ॥७॥
श्वेतांबरधरे देवि नानालंकारभूषिते ।
जगतस्थिते जगन्मातर्महालक्ष्मी नमोऽस्तुते ॥८॥
महालक्ष्म्यष्टकस्तोत्रं यः पठेद् भक्तिमान नरः ।
सर्वसिद्धिमवाप्नोति राज्यं प्राप्नोति सर्वदा ॥९॥
एककालं पठेन्नित्यं महापापविनाशनं ।
द्विकालं यः पठेन्नित्यं धनधान्यसमन्वित ॥१०॥
त्रिकालं यः पठेन्नित्यं महाशत्रुविनाशनं ।
महालक्ष्मीर्भवेन्नित्यं प्रसन्ना वरदा शुभा ॥११॥
Leave a Reply